वांछित मन्त्र चुनें

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

iyaṁ deva purohitir yuvabhyāṁ yajñeṣu mitrāvaruṇāv akāri | viśvāni durgā pipṛtaṁ tiro no yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ । विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.६१.७

ऋग्वेद » मण्डल:7» सूक्त:61» मन्त्र:7 | अष्टक:5» अध्याय:5» वर्ग:3» मन्त्र:7 | मण्डल:7» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मित्रावरुणौ, युवभ्याम्) अध्यापक और उपदेशक आप दोनों (यज्ञेषु) यज्ञों में (इयम्, देव, पुरोहितिः) सब विद्वानों के हित करनेवाली वाणी (अकारि) कथन करें और (नः) हमारी (विश्वानि, दुर्गा) सब प्रकार की विषमता को (तिरः) तिरस्कार करके (पिपृतम्) नष्ट करें, (यूयम्) आप लोग (नः) हमको (सदा) नित्यप्रति (स्वस्तिभिः) अपनी मङ्गलप्रद वाणियों से (पात) कल्याणदायक उपदेश करते रहें ॥७॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि कर्म, उपासना तथा ज्ञान इन तीनों प्रकार के यज्ञों में अध्यापक तथा उपदेशक ही पुरोहित का कार्य्य करते और यही जनता=जनसमूह को सब विघ्नों से बचाकर उसकी रक्षा करते हैं, इसलिये जनता को समष्टिरूप से इनसे स्वस्ति की प्रार्थना करनी चाहिये ॥७॥३॥ इकसठ ६१ वाँ सूक्त समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (मित्रावरुणौ) हे अध्यापकोपदेशकौ ! (युवभ्याम्) भवद्भ्यां (यज्ञेषु) यज्ञादिषु (इयम्, देव, पुरोहितिः) देवानां हितकारिणीयं वाक् (अकारि) कृता, अन्यच्च (नः) अस्माकं (विश्वानि) सम्पूर्णानि (दुर्गा) विषमाणि विघ्नानीत्यर्थः (तिरः) तिरस्कृत्य (पिपृतम्) नाशयतम्, यूयं (स्वस्तिभिः) कल्याणकारिणीभिर्वाणीभिः (सदा) सर्वदा (नः) अस्मान् (पात) रक्षत ॥७॥
भावार्थभाषाः - परमात्मोपदिशति,  कर्मोपासनाज्ञानात्मकेषु यज्ञेषु अध्यापकोपदेशकाभ्यामेव पुरोहितस्य कर्म्म कारयितव्यम्, नान्येभ्यः, यत एवंविधा विद्वांसः याज्ञिका भवन्ति अत एभ्य एव स्वस्तिवाचनस्य प्रार्थना करणीया नान्येभ्य इति ॥७॥